________________
१७२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् जावालसंघेन चतुःशतेन,
चैत्रे सिते विश्वतिथौ सहैषः । समाययावर्बुदशैलराज,
चरित्रनेता सह सर्वशिष्यैः ॥९५०॥ श्रीमांस्तदाऽऽसीद्विजयाऽऽदि-नेमि
सूरीश्वराऽऽचार्यवरोऽपि तत्र । सहाऽमुनाऽष्टौ दिवसानि नित्यं,
सज्ज्ञानगोष्ठीमसको प्रचक्रे ॥९५१॥ सत्साधु-संस्थाविषये विशेष
विचारणा नैकविधा बभूव । सुश्रावकाणामपि वृद्धये तौ,
प्रचक्रतु.कविचारमत्र ॥९५२॥ भुजङ्गप्रयातम् - ततो धन्वदेशे विहर्तुं मनीषी,
प्रतस्थे सशिष्यो महान् नेमिसूरिः । अयं चाऽपि नेता चरित्रस्य धीमान्,
तनु-स्वास्थ्यमाप्तुं ततः सत्वरं हि ॥९५३॥ उपजातिः - तद्देलवाडाऽभिधतः प्रदेशाद्,
उत्तीर्य रम्यां तदधःस्थलस्थाम् । गतः खराडीनगरीमितोऽपि,
कुभारियाजीस्थलमाजगाम् ॥९५४॥ (युग्मम् )