________________
१७१
सादडीनगरे आगमनम्, धर्मोपदेशश्च । महामहिम्नां समुपागताना
मेषां गुरूणां नगर-प्रवेशे । अपूर्वमत्यन्तमहामहं ते,
वितेनिरे पौरजनाः प्रहर्षात् ॥९४५॥ अपाययच्चैष गुरुः समस्तं,
श्रीसङ्घमोजस्वितरं यथेच्छम् । व्याख्यान-पीयूषरसं ह्यपारसंसार-कान्तार-कुठारभूतम् ॥९४६॥
(तृषाविभेदम्) वैतालीयम् - वरकाणामाययौ ततो,
जिनवरमेष विलोक्य भक्तितः । प्रणनाम मुहुर्मुहुः प्रभुं,
कृतकृत्यः समजायताऽसकौ ॥९४७॥ ततः समागात् सह भूरिशिष्यैः,
खीमेलनाम्नी नगरी क्रमात्सः । श्राद्धा महाऽऽडम्बरतः समेतं,
प्रावीविशन्नात्मपुराऽन्तरेनम् ॥९४८॥ उदार-वाणी रुचिराः सुधाः ,
संसार-दावाऽनल-नीर-धाराः । मुखाऽम्बुजादस्य गुरोर्निशम्य,
सर्वे च सभ्याः सुहिता बभूवुः ॥९४९॥