________________
१७०
__ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भामशाह-परिकारित-युग्मं,
विद्यते परमसुन्दरमुच्चैः ॥९३९॥ मन्दिरं प्रतिपुरं परमेकं,
चाऽस्ति भूरि-गिरि-शोभित-देशः । मानवाश्च सरला अबुधत्वात्,
सन्ति धर्म-दृढता-परिमुक्ताः ॥९४०॥ उपजातिः - अतश्च शास्त्राऽध्ययनाय तेषां,
विद्यालयाऽऽवश्यकताऽस्ति तत्र । तदर्थमासीद्यतमान एष,
परन्तु देहे चरितस्य नेतुः ॥९४१॥ अस्वास्थ्यमाकस्मिकमाजगाम,
महत्तरं तेन च हेतुनाऽसौ । तदैशिकं दीर्घविहारमाशु,
विमुच्य चाऽऽयिष्ट सदेसुरीं ताम् ॥९४२॥(युग्मम्) समभ्युपेतं तमशेष-पौराः,
श्रद्धालवस्ते महतोत्सवेन । सम्मान्य निन्युः पुरमेषकोऽदाद्,
धर्मोपदेशं सम-शास्त्र-सारम् ॥९४३॥ प्रस्थाय तस्मादयमैच्च घाणे
रावं पुरं तत्र समस्तलोकैः । सुसत्कृतः सर्वजनान् प्रबोध्य,
स सादडी सन्नगरी समागात् ॥९४४॥