________________
देलवाडानगरे सत्यविजयपन्यासस्य तुष्टा शासनदेवी । कानूडपुर्यामपि भासमाना, चैत्यत्रयी सम्प्रति वर्तते हि ॥९३३॥
वैतालीयम् विपुले लघुसादडीपुरे, भव्ये स्तो जिनमन्दिरे वरे । नागोरी - चन्दनाऽऽदिको, मल्लो निवसति धर्मरागवनान् ॥९३४॥
सन्ति च सर्वे वशम्वदा, लुम्पाका अपि चाऽस्य धीमतः । नींबाडापत्तने महा-चैत्यानां त्रितयी विशोभते ॥ ९३५ ॥
उपजाति:
मालिनी
स्वागता
--
तच्चित्रकूटाऽभिधपत्तनाऽन्त
चैत्यद्वयं सम्प्रति भाति भव्यम् ।
तद्दुर्गमध्येऽप्यतिभव्यमस्ति,
चैत्यत्रिकं तीर्थकृतामिदानीम् ॥९३६॥
निरुपममिह दुर्गं दुर्भिदं शत्रुवर्गे
-
र्दृढतरमतिशोभं वर्तते दर्शनीयम् ।
प्रथम-समय-वार्तावेदिनां वर्णनीयं,
वसतिरपि जनानां जैन - जैनेतराणाम् ॥९३७॥
इह हि विजय - कीर्ति स्तम्भ आरोपितोऽस्ति, प्रथित-परम- वीराऽग्रेसराणां सुपुंसाम् । ललिततर- सुदुर्गाऽधस्तले वर्तते पू
१६९
विपणिरपि विशाला ष्टेशनश्चाऽस्ति रम्यः ॥९३८ ॥
तत्र राजनगरेऽपि च चैत्यं, पौरमेकमपरं गढमध्ये |