________________
कांकरोली- राजनगर आगमनम् ।
स भाटियाबाडु - पुरं समेत्य, स्वीकृत्य तत्रत्यजनप्रभक्तिम् ।
धर्मं विशुद्धं परमार्हतं हि,
भुजङ्गप्रयातम्
व्याख्यातवान् संसदि सद्यतीन्द्रः ॥ ९११॥
ततः काकरौलीं पुरीमाससाद,
महाऽऽडम्बरेणाऽविशत्तत्पुराऽन्तः । सभायां महत्यां गुरुः सन्मुनीन्द्रो,
ददावार्हतं शुद्ध-धर्मोपदेशम् ॥८१२॥
वैतालीयम् -
राजनगरमागमत्ततो,
जनता - रचित - महोत्सवैः पुरम् । प्रविश्य ददिवान् सुदेशनां,
मुनिराजो भवभीति - हारिणीम् ॥९९३॥
केलवाऽभिधानकं पुरं,
विहरन् क्रमशः प्रत्यगादितः ।
सुजनैरतिसत्कृतो गुरु
र्भव - दुःखहरीं देशनामदात् ॥११४॥
गडबोडपुरीमुपागमत्,
पुरजन - विहित महामहेन सः ।
प्रविवेश पुरं ततो ददौ,
श्रुति - सुखदां रमणीय- देशनाम् ॥९९५॥
१६५