SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - ततो झीलवाणाऽभिधाऽऽदिष्वनेक पुरेष्वेष धीमान् प्रचक्रे विहारम् । प्रतिग्राममत्यन्त-सत्कारमञ्चन्, भृशं सन्ददानः सुधर्मोपदेशम् ॥११६॥ कियद्ग्राम्यवृद्धा गताः षष्टि-सप्त तिवर्षाणि संवेगि-साधून् न कर्हि । अपश्यन्नतस्ते ह्यभावं तदीयं, विनिश्चित्य लुम्पाकमेव श्रयन्ते ॥९१७॥ वसन्ततिलका - तानप्यसौ चरितनायक उग्रतेजा, धर्मं विशुद्धमनघं गुरु-दैवतं च । एतत् त्रितत्त्वमसकृद्विविधोपदेशैः, प्राबूबुधद् गुरुवरोऽखिलजैनमान्यः ॥९१८॥ एतद्गुरोरमल-फुल्लमुखारविन्दात्, सद्देव-धर्म-सुगुरूनवगत्य सद्यः । हित्वा विलुम्पकमतं बहवो बभूवुः, __ श्रीमञ्जिनेश-सुभबिम्ब-समर्चकास्ते ॥९१९॥ उपगीतिः - उदयपुर-लघुसादडी-कपासणाऽऽकोलानगरीषु । प्रतिमा-पूजक-जैना, निवसन्ति च भावुका लोकाः ॥९२०॥ वसन्तीतर-नगरेषु, सर्वे स्थानकवासिन एव । अस्ति च तेष्वपि पूर्षु, वर्णनीयतमं बहु-भव्यम् ॥९२१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy