________________
करेडा- कपासण-सादडी -लघुसादडीपूर विहारयात्रा ।
प्रहर्षिणी
पृथ्वी
-
आकोलानगरमुपेयिवानमुष्माद्,
मौक्तिकमाला -
इन्द्रवंशा
अत्रत्याः सकल-महाजनास्तमुच्चैः ।
सच्चक्रुर्गुरुवरमेषकोऽतिरम्यां,
व्याचष्टाऽमृतमय-देशनामुदाराम् ॥९०१ ॥
ईटाली - मुपगतवांस्ततः प्रयातो,
Mausissa - प्रमुख- समस्त - वाद्यनादैः । आनिन्युः स्वपुरममुं समस्तपौराः,
प्रादाच्छ्री - गुरुरपि देशनां सभायाम् ॥९०२॥
विश्वजनीनः प्रथित- सुविद्यः, संसृति-वार्थौ दृढतर - पोतः ।
भीडरमाषद् गुरुरय- मीड्यः, पावनमूर्तिः प्रतिहत- मोहः ॥९०३॥
विरच्य रुचिरोत्सवं सकल-पौर-लोका अमुं, समेत्य गुरुसम्मुखं निजपुरं समानीनयन् । अपीप्यदयमप्यलं सुजनताश्च धर्माऽमृतं,
ह्यघौघ- परिहारकं भव- समुद्र - निस्तारकम् ॥९०४॥
प्रस्थाय तस्माद्गुरुसादडीमसौ,
सञ्जग्मिवान् नागर-सर्व-सञ्जनैः ।
प्रावेशि सत्कृत्य पुरं महाम है
रादायि तेनाऽपि च धर्म देशना ॥ ९०५॥
१६३
-