________________
१६२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो विहृत्याऽऽगतवान् क्रमेण,
स मावलीनामपुरं मुनीन्दुः । सच्चक्रुरतं सकलाश्च पौराः,
सद्देशनामेष ददौ च तत्र ॥८१५॥ इतश्चलित्वा सणवाडनाम्नी
माजग्मिवानेष भुवं पुनानः । तत्राधिकाऽऽरब्ध-महोत्सवेन,
पुरं महीयान् प्रविवेश रम्यम् ॥८९६॥ प्रौढप्रतापो मुनिराज एष,
श्रीवीर-सम्भाषित-शुद्धधर्मम् । व्याहृत्य गोष्ठयां भवसिन्धु-पोतं,
लोकानशेषान् बहुधोपचक्रे ॥८९७॥ ततः करेडामुपयात एष,
सुसत्कृतः श्राद्धजनैरदभ्रम् । धर्मोपदेशाऽमृत-भूरिवर्षां,
विधाय सर्वान् सुजनानतीत् ॥८९८॥ कपासणाऽऽख्यं पुरमाजगन्वान्,
सुश्रावकाऽऽरब्धमहामहेन । पुरं प्रविष्टो मुनिराजवर्यः,
प्रदत्तवानत्र महोपदेशम् ॥८९९॥ जास्माऽभिधानं नगरं ततोऽसा
___वासेदिवान् पौरजनैश्च तत्र । सम्मानितोऽमोघसुदेशनां स,
दत्त्वा च लोकान्मृडयाञ्चकार ॥९००॥