________________
१६१
ढुण्ढकानाम् धर्मोपदेशः वैश्वदेवी - शुद्धाऽर्हद्धर्माणां विशेषोपदेशैः,
श्राद्धानां चित्ते धर्मदाढर्यं स इत्थम् । सञ्चक्राणः श्रीनीतिनामा महात्मा,
पन्यासोपाधिर्मेदपाटाऽऽख्यदेशे ॥८९०॥ प्रस्थायैतस्मात् सार्धमेष स्वशिष्यै
विश्वेषां त्राताऽऽगाद्भुआणापुरीं सः । श्रद्धालुश्राद्धैः सर्ववाद्यैर्नदद्भिः,
प्रावेशि श्रीमान् सद्गुरु रिलोकैः ॥८९१॥ पापेभ्यो लोकांस्त्रातुकामो दयालुः,
श्राद्धानां धर्मान् व्याजहारैष शुद्धान् । सर्वे सभ्यास्तान् सादरं दत्त-चित्ताः,
श्रुत्वा सम्यक्त्वे दाढर्यमापुः प्रकामम् ॥८९२॥ उपजातिः - ततो विहृत्यैष समाजगाम,
श्रीएकलिङ्गिाऽभिधरम्यतीर्थम् । प्रस्थाय तस्मादपि देलवाडां,
तीर्थेशमालोक्य ययौ प्रमोदम् ॥८९३॥ घासापुरीमेष ततः समेत्य,
तत्पौरलोकैः कृत-सत्कृति सः । प्रपद्य तत्राऽऽर्हत-शुद्ध-धर्मान्,
सुधोद्गिरा चारुगिराऽऽदिदेश ॥८९४॥