________________
१६०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वज्रिपद्म-मकरन्द-मिलिन्दभूतो,
वैनीत्यवानखिलसद्गुणता-निधानम् ॥८८३॥ हा ! हन्त ! निर्दययमो जगदद्वितीय
तीर्थङ्करान् सुबलिनोऽखिलचक्रिणोऽपि । नोज्झाञ्चकार न समुज्झति नोज्झिताऽग्रे,
तस्मादमुं सुमुनिरत्नमपाऽहरद्धि ॥८८४॥ वर्षद्वयं निरतिचार-सुसंयमं सोऽ
त्यन्तम्प्रपाल्य गतवान् गतिमुत्तमां वै । पुण्याऽर्जनेन समभूत्सफलं तदीयं,
मानुष्यजन्म बहुदुर्लभमत्र लोके ॥८८५॥ रम्यं विमानचिरं विरचय्य सर्वे
तस्मिन्निधाय शवमुत्तमभाववन्तः । आडम्बरेण महता बहुवाद्यनादै
र्नीत्वा श्मशानमदहन् विधिवत्सशोकाः ॥८८६॥ उपजातिः - अथैतकस्मान्नगराद्विहृत्य, जोजुष्यमाणः सकलैश्च शिष्यैः । स धन्वदेशे विजहार सत्य-धर्मोपदेशं जनतासु कुर्वन् ॥८८७॥ आर्याहित्वा मन्दिरपूजां, स्थानकवासितामुपगता बहुशः । ढुण्ढकीयोपदेशा-ञ्छावं श्रावमबुधाः श्राद्धाः ॥८८८॥ गीतिः - अबुधांस्तानपि जीवान्, प्रतिबोध्य शुद्धधर्माऽऽश्रितानकरोत् । एतद्गुरूपदेशात्, लेभिरे तेऽपि सम्यक्त्वाऽऽधिक्यम् ॥८८९॥