________________
१५९
उदयपुरनिर्माणकारणम् । नैके च भूपाः खलु भारतीयाः,
सिषेविरेऽकब्बरबादशाहम् । स्त्रीरत्नमस्मै समदुस्त्वयं तु,
नाऽदात्सुतां नो तमशिश्रियच्च ॥८७८॥ चरित्रनेता निजभूरिशिष्यैः,
सहैष तस्थाविह मासमेकम् । विलुम्पकानां महदेव तत्र, -
प्राबल्यमुच्चैर्नगरे किलाऽस्ति ॥८७९॥ देशे ह्यमुष्मिन् खलु मेदपादे( टे),
कुमारपालाऽऽदिनरेन्द्रवर्यैः । प्रायः प्रतिग्राममतीव रम्यं,
वेविद्यते स्थापितचैत्यमुच्चैः ॥८८०॥ आकस्मिकोऽस्मिन्नगरे गरीयान्,
ज्वरो बभूवान्मुनिचन्दनस्य । सुश्रावका नैक-गरिष्ठ-वैद्यान्,
आनीय चक्रुर्विविधोपचारान् ॥८८१॥ आयुःक्षयत्वादिवसे द्वितीये,
सद्ध्यान-लीनः परमेष्ठि-मन्त्रान् । स्मरन्नजस्त्रं परिहाय कायं,
स्वर्ग-प्रवासी समभूदकाले ॥८८२॥ वसन्ततिलका - आसीदसौ चरितनायकशिष्यरत्नं,
सम्यक्-स्वकीय-परकीय-सुशास्त्र-पाठी ।