________________
राधनपुरे ईर्ष्यालुजनानां पराभवः । पन्यासादिपदं दत्तं मुनिनाम् । १५१ वंशस्थम् - व्रजन्तमालोक्य पुरे मतङ्गजं,
भषन्ति कामं शुनकाः समन्ततः । बिभेति किञ्चन्न हि तेन वारणो,
न कोप आयाति च तस्य मानसे ॥८३६॥ उपजातिः - स्वाभाविकी रीतिरिति प्रजानन्,
नेता चरित्रस्य वचोभिरेषाम् । कुप्यन्न तेभ्यो न च बिभ्यदेष,
शान्त्यैव कार्यं सकलं ससाध ॥८३७॥ शिखरिणी - नभः-सप्ताऽङ्कोर्वी-प्रमित (१९७०) शुभवर्षे मुनिवरः, सहोमासे शुक्ले कुसुम-शरतिथ्यामतिमहैः । तदर्ह-श्रीदेव-प्रविनयि-दया-दानविजयप्रधी-श्रीहर्ष-श्रीसुगुणि-मुनि-भक्तिभ्य उचितम् ॥८३८॥ प्रदायैभ्यो विद्भ्यो गणिपदमुदारोज्वल-यशाः, पुना राकातिथ्यां सहसि सितपक्षे गुरुवरः । अमीभ्यः पञ्चभ्योऽददत स हि पन्न्यासपदवीं, व्यधादष्टाऽहीनं परम-महमत्रत्यजनता ॥८३९॥ (युग्मम्) भद्रिका - समवसरणमत्र निर्ममा-वतिशय-कमनीयतामितम् । उपगत-जनता-मनोहरं, भव-तति-कृत-पापहारकम् ॥८४०॥