________________
राधनपूरे शान्तिस्नात्राद्युत्सवाः ।
वसन्ततिलका
तेष्वेव देवविजयो मुनिराट् प्रताप
पन्यासिनः समभवद्वरधीः सुशिष्यः ।
श्रीमान् दयाविजय' ईड्य वरस्य तस्य,
पन्यास - भावविजयस्य बभूव शिष्यः ॥८२५॥ श्रीदान- हर्षविजयौ सुधियौ विनीतौ,
प्रज्ञाऽऽकरावभवतां चरितस्य पत्युः । शिष्यौ च भक्तिविजयो वर-सिद्धिसुरे
रन्तेसदो विनय - साधुवरस्य शिष्यः ॥८२६॥ वर्वर्ति सम्प्रति स एव हि भद्रसूरि
राचार्यतामुपगतो जनताऽऽदृतश्च । भव्याञ्जनानतितरां प्रतिबोधयन् हि,
श्रीवीर - शासन - वने च विजर्हरीति ॥८२७॥
इत्थं ह्यनेक- शुभकृत्यमसौ वितन्व
न्नुत्साहसम्पदमशेष-महाजनानाम् । संवर्धयन् हृदि सुखेन चरित्रनेता,
वर्षादिनान्यगमयत्सकलानि तत्र ॥८२८॥
लोकेष्वसाधुजनता परकीयवृद्धिं,
दृष्ट्वा स्वकीयहृदये परितातपीति । साधुर्जगद्धितरतः सततं परेषां,
तां वीक्ष्य सौवहृदये परजर्हषीति ॥८२९ ॥
एकोन्नतौ भवति यत्र परस्य हानि
१४९
र्ष्याऽग्निराशु नियतं समुदेति तत्र ।