________________
१३९
राधनपुराच्चरित्रनेतू राजनगरे गमनम् ।
आडम्बरेण महताऽखिल-तूर्यनादै
__ लॊकं नयद्भिरखिलं बधिरत्वमुच्चैः । सीमन्तिनी-श्रवण-तर्पणकारि-गीतै
रभ्यागतै-रभिमुखं जनतासहस्त्रैः ॥७७२॥ उपजातिः - कृत्वा प्रवेशं पुरि सर्वलोकैः,'
स्त्रीभिश्च पुम्भिः परिवन्द्यमानः । लूवार-पोलीय उपाश्रयेऽसौ,
___ सन्तस्थिवान् साकमशेषशिष्यैः ॥७७३॥ (युग्मम्) वसन्ततिलका - श्रीमान् प्रतापिविजयोऽस्ति महारुजातः,
पन्न्यास-भागनिशमत्र भवन्तमेकम् । ऊँझापुरे स्मरति तत्त्वरया त्वमेही
त्याबुद्ध्य वैद्युतदलेन तदागतेन ॥७७४॥ तत्कालमेव विजहार च वीरमादे
ामादसौ तमवलोकितुमुत्क-चेताः । तद्भोयणीनगरमागतवानिहाऽस्य,
चक्रे स कालमिति वैद्युतपत्रमागात् ॥७७५॥ उपजातिः - अतः परावृत्य पुनः समागात्,
स वीरमग्राम-मतिप्रशोचन् । हा हन्त ! कालो बलवत्तरोऽस्ति,
कमप्यसौ मुञ्चति नैव काले ॥७७६॥