________________
१३६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ज्ञानाऽर्चनादत्र हि चक्रवर्ती, . .
जाजायते शक्रपुराऽऽधिपत्यम् । लोकान्तरे प्राप्य तदीयसौख्यं,
चिराय सम्भुज्य ततोऽत्र लोके ॥७५६॥ उच्चैः कुले जन्म समेत्य भूयः,
सम्पाल्य चारित्रमदूषितं सः । कैवल्यमापद्य समुज्ज्वलं हि,
लालभ्यते सौख्यमनश्वरं च ॥७५७॥ (युग्मम्) शिखरिणी - श्रुतज्ञानात्प्राणी स्वहितमाहितं वेत्ति नियते, तथा जीवाऽजीवाऽऽदिकमपि सुतत्त्वं निजधिया । स तत्त्वज्ञो भूत्वा विरतिमपि चेयर्ति परमां, विरत्यां जातायां झटिति लभते मोक्षमनघः ॥७५८॥ मालिनी - कृत-वृजिन-रुजानामौषधं रामबाणं
सुकृत-तति-निदानं साधनं सर्वसिद्धेः । शिव-नगर-सुमार्गाऽऽलोकने दिव्यचक्षु
र्भवति नरवराणां ज्ञानमेतच्चकासत् ॥७५९॥ उपजातिः - कर्मोंघ-शुष्कन्धन-पुञ्जमेत
निमेषमात्रेण च दन्दहीति । सतां समिद्धोऽग्निरिवाऽत्र लोके,
कान्तेव शश्वद्धितकारि जन्तोः ॥७६०॥