________________
१३५
चरित्रनेत्रा विद्यालयकृते कृत उपदेशः । एतत्रुटिं परिजिहापयिषुः कृपालु
रेतच्चरित्र-वर-नायक आयतिष्ट । प्राबूबुधच्च सकलानिति देशनायां,
नुर्ज्ञानमेव सकलोन्नतिहेतुरस्ति ॥७५१॥ भुजङ्गप्रयातम् - ध्रुवं वीरपुत्रा इमे शासनेऽस्मिन्,
समस्ताऽऽगमज्ञा भवेयुश्च यहि । अवश्यं हि तर्खेव तीर्णा भवाऽब्धेः,
समुत्तारयेयुः परांश्चाऽपि जीवान् ॥७५२॥ उपजातिः - प्रत्येकवीराऽऽश्रित-धीर-पुम्भि
द्रव्येण भावेन च नित्यमेव । सैद्धान्तिकाऽऽराधनमस्ति कार्य,
हिताय चाऽन्यैरपि कारणीयम् ॥७५३॥ धी-निर्मलत्व-प्रत्ति(ति)पत्तये यो,
जिनाऽऽगम-ग्रन्थमनेकमत्र । विलेख्य कोशे घ्रियतेऽथवा यो,
संलेख्य जीर्णं मुनये ददाति ॥७५४॥ इत्यादि कृत्यैरिति शुद्धभक्त्या,
ज्ञानं समभ्यर्चति भव्यजीवः । तद्बुद्धिजाड्यं परिणश्यतीह,
जञ्जन्यते निर्मलभूरिबुद्धिः ॥७५५॥