________________
१३४
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
मुनिर्माननामाऽभवच्चैतदीय- .
विनेय- प्रधानस्य हर्षस्य साधोः । विनीतः सुशिष्यो भविष्यत्सुसूरेमहोदारकीर्तेर्विपश्चिद्वरस्य ॥ ७४६ ॥
शार्दूलविक्रीडितम् - धर्म-प्रेमणि गुर्जरे गुरुवरो नीवृत्यसौ पर्यटन्, सद्विद्याविषयोपरि प्रतिपुरं चौजस्विनीं देशनाम् । ज्ञानौन्नत्य-विधित्सयाऽमृतगिराऽदादेच्च गम्भीरया, यत्तेनैव विजेजयीति सुमना मोहाऽऽदिषड्वैरिणः ॥७४७॥
वसन्ततिलका
नाऽनेन मोक्षमतिदुर्ल(र्लभ ) मभ्युपैति, जानाति भूतमथ भाव्यमशेषवृत्तम् । पोपूज्यते च सकलैरिह मर्त्यलोकै
रानन्दमात्रमनघं परिपश्यति स्वम् ॥७४८॥
ज्ञानं विना भवति ना पशुवन्नृलोके,
नो वेत्ति किञ्चिदपि धर्म - मधर्मकं वा । अश्नोदरार्थ - सतताऽकुलतां प्रपन्नः,
संबम्भ्रमीति चिरमत्र विमूढजीवः ॥७४९ ॥
तज्ज्ञानमाप्तमुचिताऽखिल - सुप्रबन्धं,
विद्यालयाऽऽदि न हि चैकमपीह देशे । वर्वर्त्ति तेन मुनयः परिपूर्णविद्यां,
नैवाऽऽनुवन्ति विचरन्त इह प्रदेशे ॥७५० ॥