________________
१३३
वीरमग्रामे उपधानादितपः। मालासमारोपण-जायमान
श्चाऽऽष्टाहिकोऽकारि महामहश्च ॥७४०॥ श्रीमान् गुरुः स्वीय-शुभकरेण,
पाण्यम्बुजेनोत्तम-मालिका हि। शुभे मुहूर्ते वतिनां समेषां,
समर्पयामास महाऽनुकम्पः ॥७४१॥ उपस्थितिश्चाऽऽगत-सज्जनानां,
गरीयसी तत्र महामहेऽभूत् । प्रभावनाऽर्चाऽ-खिल-संघ-सेवा,
प्रशंसनीया जनतासु जज्ञे ॥७४२॥ वस्वङ्ग-रन्ध्र-क्षिति (१९६८) विक्रमाऽब्दे,
___ माघे वलक्षे सुतिथौ दशम्याम् । मुन्योस्तयोश्चन्दन-मान-नाम्नो
र्दीक्षां च गुर्वी ददिवान् महीयान् ।।७४३॥ तामेव लोकाः कथयन्ति छेदो
पस्थापनीयामिति पूर्वमेव । व्याहाति तस्मादिह तत्प्रपञ्चं,
न चर्करीमीति सुधीभिरुह्यम् ॥७४४॥ भुजङ्गप्रयातम् - बभूवान् विनेयो मुनिश्चन्दनाऽऽख्यः,
सभायां प्रवक्तुः सुपन्न्यासि-जिष्णोः । चरित्राऽधिभर्तुर्मुनीन्दोरमुष्य,
सुधीवृन्द-चित्ताऽम्बुज-वाजि-भानोः ॥७४५॥