SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् प्रत्याख्यानमनेक-तीव्र- नियमाऽऽदानं प्रभोः सद्गुरोगृहणन्तः प्रतिवासरं सुभविका: श्राद्धास्तथा श्राविकाः । चक्रुर्दुष्कर - सत्तपांसि परया भक्त्या कियन्तः परे, सम्यक्त्वं प्रतिपेदिरे कति जना यद्दुर्लभं देहिनाम् ॥७३५॥ श्रीमच्छ्रीजिनपूजनं कतिविधं नैकोत्सवं प्रत्यहं, तत्राऽचर्करुरुत्सहिष्णुसुजनाः सद्भक्तिमन्तः सभे । दानं चाऽपि निरर्गलं बहुविधं संस्थासु नानास्वपि, कृत्वा नैजधनं व्यधुश्च सफलं सर्वे समुत्साहिनः ॥७३६ ॥ उपजाति: तोपधानं द्विशती जनानां, स्त्रीपुंसकानां परया च भक्त्या । चकार चैतद्वसु-वार्धि-घस्त्रै राराध्यते सन्तत - पौषधस्थैः ॥७३७॥ उपोषणं चैकदिने द्वितीये, घस्त्रे पुन: षड्विकृति - प्रहीणम् । सञ्जायते भोजनमेकवार मायंबिलं रुद्रदिनानि चान्ते ॥७३८ ॥ रीत्याऽनया भक्तिभरेण सर्वे, चाऽऽराधयामासुरिहोपधानम् । श्रीमद्गुरूणां कृपया ह्यमीषां, समापिपंश्चैतदविघ्नमेते ॥७३९॥ प्रान्ते च तेषां समुपासितस्यो पधाननाम्नस्तपसश्च तत्र ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy