________________
१३१
वीरमग्रामे गमनम् । तत्र धर्मदेशना। औपच्छन्दसिकम् - चन्दनविजयेति नाम चक्रे, दीक्षानन्तरमेतकस्य रम्यम् । सद्गुणताऽम्भोनिधिर्गुरुर्हि, विश्वजनीनो योगिराजवर्यः ॥७२९॥ उपजातिः - समुत्सहिष्णुः परमं किलैष, दुग्धं धृतं तैल-गुडौ दधीनि । तैलेन पक्वं सकलं च खाद्यं, जहौ षडेतद्विगयानि धीमान् ॥७३०॥ गृहीतदीक्षो मुनिचन्दनोऽसौ,
चारित्र-सम्पालनतत्परः सन् । वैराग्यपूर्णः क्रमशः स्वशास्त्राऽ
ध्यायं समारब्ध गुरोः समीपे ॥७३१॥ ततो विहृत्यैष समेत्य वीर
__मग्राममस्मिन्नकरोन्मुनीशः । वर्षर्तुवासं समशुश्रुवच्च,
___ व्याख्यानकाले सुकृताङ्गसूत्रम् ॥७३२॥ अत्युत्सुका नित्यमशेष-पौरा,
जैना अजैनाः पुरुषाः स्त्रियश्च । सभामुपेता बहुनाऽऽदरेण,
संशुश्रुवुस्तेऽधिकमोदमानाः ॥७३३॥ शार्दूलविक्रीडितम् - एतस्याऽद्भुत-देशना निरुपमाः पीयूषधारायिता, जीवैः सादर-संश्रुता बहुभवोद्भूत-प्रभूताऽघहाः । नित्याऽनन्त-सुखप्रदा भवततेरुच्छेदिकाः प्राणिनामाकाऽखिल-सज्जनाः प्रमुदिताः सन्तु(न्तुष्टु)वुः सद्गुरुम्॥७३४॥