________________
१३०
... आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीभोयणी-परम-पावन-सिद्धतीर्थे,
दीक्षां भवाऽब्धि-तरणिं शिवसौख्यदात्रीम् । नाना-भवीय-निचिताऽखिल-कर्महर्जी, लात्वा बभौ धृत-सुवीर-पवित्रवेषः ।।७२४॥
(त्रिभिर्विशेषकम्) दीक्षार्थिनं प्रथममेत्य तदीयपली,
वारद्वयं गुरुवरान्तिकतो गृहीत्वा । गेहं निनाय चतुरा बहुधा विलप्य,
___ माया-प्रपञ्चमधिकं विरचय्य तन्वी ॥७२५॥ भुजङ्गप्रयातम् - तदाऽसौ कृपालुर्गुरुस्तामुवाच,
सुशीले ! पतिस्ते समैता पुनश्चेत् । तदाऽवश्यमस्मै प्रदास्यामि दीक्षा
मिति त्वं मदुक्तं विजानीहि सत्यम् ।।७२६॥ अतस्तं ह्युपेतं तृतीये च वारे,
___ गृहीत-प्रदीक्षं प्रचक्रे महात्मा । ग्रहीतुं तमागत्य भार्याऽपि पश्चात्,
समैक्षिष्ट कान्तं गतं साधुवेषम् ॥७२७॥ उपजातिः - शोशुच्यमाना गुरुसन्निधौ सा,
रोरुद्यमाना कति-विज्ञ-लोकैः । प्रबोधिता धैर्यमुपेत्य पश्चा
दाभाष्य तं स्वीयपुरं समागात् ॥७२८॥