________________
१२८
इन्द्रवज्रा
एतत्कुरीत्यै खलु धर्मगेहे, स्थान-प्रदानं बहुहानिकारम् । पल्या असत्या इव सर्वलोकैः,
आर्यागीतिः
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
सोच्छेदनीया तत आशु यत्नात् ॥७१४॥
सत्यां हि तस्यां रुजि शक्तिवद्धि, धर्मश्चतुर्धात्मक एष लोके ।
वर्धिष्यते नैव कदापि देहे,
नुः सत्यमेतन्न हि संशयोऽस्मिन् ॥७१५॥
नवपदमन्त्राऽऽदीना
माराधनेऽपि तत्तत्कर्तव्यत्वम् ।
निपतति शिरसि यदेवं,
तदपि हापयितुं सर्वथा यतनीयम् ॥७१६॥
एवं सदसि महीयान्,
सकल - कुरीति - विलोपनाय बहुयुक्तिम् । चरित - पति: परमर्षिः,
सम्प्रदर्श्य समाकृषज्जनता-चित्तम् ॥७१७॥
कृत्वा विहारं तत एष सर्वैः, सत्साधुभिः सार्धमुदार-कीर्तिः ।
तीर्थं परं केशरियाजि - नाम,
पापाऽद्रि-दम्भोलिमुपाजगाम ॥७१८॥