________________
१२७
चरित्रनेतुर्बीजापूरे गमनम्। आष्टाहिकेनाऽतिमनोहरैण,
नैकप्रकारी जिनराज-पूजा । प्रभावना श्रीफलकादिनाऽभूत्,
जीवाऽनुकम्पादिषु भूरिदानम् ॥७०८॥ भूयिष्ठ-लोका उपतस्थिरेऽस्मि
नभूच्च शान्तिस्नपनं प्रभूणाम् । श्रीस्वामि-वात्सल्यमनेकमत्राऽ
भवत्प्रकास्यं ववृधे च धर्मः ॥७०९॥ आकर्ण्य कामं सकलाश्च पौरा,
व्याख्यानमेतस्य महाप्रभावम् । सम्यक्त्व-सन्दाढयंकरं प्रशस्यं,
धर्मे सुरां दधिरे नितान्तम् ॥७१०॥ प्रागार्हतीया धनमन्तरेण,
__नानाविधं धर्ममकुर्वताऽत्र । एतच्छताऽब्यां नख-संख्यकायां,
धर्मोऽपि जातो व्यवहार एव ॥७११॥ अष्टोपवासाऽऽदि-तपःस्वपीह,
प्रजागरा-सांधिक-भोजनाऽऽदेः । कर्तव्यता या प्रससार लोके,
सैषा कुरीतिर्घटते न धर्मे ॥७१२॥ अहँ विना क्रेतुमना अपीह,
क्रीणाति नो क्रय्यमकिञ्चनो ना । यथा तथा सम्प्रति निर्द्धनोऽपि,
कर्तुं न शक्नोति कदापि धर्मम् ॥७१३॥