________________
१२२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - प्रध्माय शङ्ख पुरमत्र शङ्ख- - -
श्वरं विनिर्माय विधाय चैत्यम् । बिम्बं प्रतिष्ठाप्य तदम्बुनाऽसौ,
सैन्यं विनिद्रं कृतवान्मुरारिः ॥६८२॥ द्वाविंश-तीर्थङ्कर-नेमिनाथ
जिनेश-काले रचिता पुरीयम् । कृष्णेन चैषा प्रतिमाऽपि रम्या,
चिरन्तनाऽत्यन्त-चमत्कृताऽस्ति ॥६८३॥ ज्योतिष्क-देवैरपि पूज्यमाना,
लोके तदीये चिरकालमासीत् । लोकैरसंख्यैरधुनाऽपि भूरि
चमत्कृतिः सन्ततमीक्ष्यते हि ॥६८४॥ भुजङ्गप्रयातम् - अधिष्ठातृ-देवी-सदाऽधिष्ठितेयं,
समाराधिता सा ददाना समेषाम् । अमुष्मिन् नृलोके ध्रुवं कामधेनू
यिता भाति शश्वत् समाऽतिभक्त्या ॥६८५॥ अपत्यैविहीनाः कियन्तो हि सन्तः,
समाराध्य भक्त्या लभन्ते सुपुत्रान् । दरिद्राः प्रभूतं धनं चाऽऽशु यन्ति,
भजन्ना किलैतां पनीपद्यते शम् ॥६८६॥