SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२३ शंखेश्वरतीर्थे प्रतिष्ठा कृत्वा तारङ्गतीर्थे आगमनम् । पञ्चचामरम् - अयं चरित्रनायको हयाऽङ्ग-नन्द-चन्द्रमः-(१९६७) ___समा-तपः-सिते दले विलेशयीय-सत्तिथौ । तदेव बिम्बमुत्तमं बहिः स्थितं निजासने, ___ स्वतिष्ठिपन्महामहैः शुभेऽह्नि-शुद्धलग्नके ॥६८७॥ तदर्थ उत्सवो महानबोभवीदिनाऽष्टकं, समस्त-सङ्घ-जमनं वसूत्तराऽभिष( घे)चनम् । कियत्सहस्रमागमज्जना विदेशतस्तदा, दिदृक्षया महोत्सवं गुरूनगुंश्च वन्दितुम् ॥६८८॥ समाप्य सज्जितेन्द्रियः समस्त-कृत्यमेषकः, स्वकीय-मौन-मण्डलीश्रितो विहृत्य तत्पुरात् । पथि क्रमानुपागतान्यनेकसत्पुराण्यसौ, पुनञ्जनाननारतं प्रबोधयन् गुणोज्ज्वलः ॥६८९॥ शार्दूलविक्रीडितम् - तारङ्गाजिकमुत्तमं क्षितितले संसार-तारं परं, तीर्थं प्रापदकल्मषो मुनिवरः कामाऽऽदि-षटकाऽरिजित् । दृष्ट्वा तीर्थपतिं प्रणम्य परया भक्त्या प्रणुत्याऽऽदरादात्मानं पुपुवे बभूव मुनिराऽत्यन्त-हर्षाऽऽकुलः ॥६९०॥ मालिनी विहित-सविधि-यात्रः प्रस्थितश्चैतकस्माद्, विसनगर-मगच्छन्नागरास्तत्र सर्वे । अतिशय-निनदद्भिर्बेण्ड-भेर्यादि वाद्यै युवतिजन-सुगीतैश्चाऽऽनयंस्तान् पुराऽन्तः ॥६९१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy