________________
लुहारपोले स्थित्वा श्री शंखेश्वरतीर्थ आगमनम् । चातुर्मास - निवर्तने मनसुखः पुत्रो भगुश्रेष्ठिनः, श्रीशङ्खेश्वर-पार्श्वनाथ - विधिवत्संस्थापनाय प्रभोः । विज्ञप्तिं कृतवानमुष्य सुगुरोः सत्तीर्थ- शङ्खश्वरे, तन्नुन्नः सकलैः सुशिष्यनिकरैः साकं विज ततः ॥६७६ ॥ वैतालीयम्
-
अचिरादयमागमद्गुरुः, श्रीशङ्खेश्वर तीर्थमुत्तमम् । एषकोऽत्र नागरैर्जनैः प्रावेशि पुरं सुन्दरोत्सवैः ॥६७७॥
पुरा जरासन्ध - भूभुजा,
युधि सैन्येषु स्वापितेषु वै ।
स्वापनाऽस्त्र- मोचनात्तदा,
तद्विहन्तुं जनार्दनः स्वयम् ॥६७८॥
नेमिनाथ-बोधितो हरिः,
पार्श्वनाथ - विभु - बिम्ब - पित्सया । पतितोऽधिक-सङ्कटेष्वसौ,
पद्मावतीं सुरीमपूजयत् ॥६७९॥
दोधकवृत्तम् -
त्रिदिनं समुपोष्य तोषिता,
चरमे दिवसे सम्मुखाऽऽगता । बिम्बमदात्केशवाय तत्,
स्वस्थानं पुनराजगाम सा ॥ ६८० ॥
तावदशेष- चमूमयमेको,
नेमि - जिनेश्वर एव हि तत्रे ।
निस्तुल- शक्तिधरो जगदीश:,
सर्व-सुरासुर - मानव - जेता ॥६८१॥
१२१