________________
११८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - परिजन-सहाऽनुमत्या-ऽबोभूयत वसु-दिवस-महामहोऽपि । आडम्बरेण महता, वरघोटकोऽचलदुभयदीक्षायाम् ॥६६०॥ उपजातिः - चारित्रमेतद्वरिवर्त्ति लोके,
स्वं सद्गुणाऽऽढ्यं सुधियां विधातुम् । सुसाधनं दिव्यगतिं च नेतुं,
निर्भीकयानं चित-कर्मजालम् ॥६६१॥ छेत्तुं महाऽस्त्रं दुरवाप-मुक्ति
वधू-समालिङ्गन-कारकं च । चारित्रमेतौ परिगृह्य धीरौ,
संसेवमानौ गुरुवर्यमेनम् ॥६६२॥ डेलाऽभिधोपाश्रय एव तस्याऽ
__धिकारि-पुंसामधिकाऽऽग्रहेण । षडङ्गरन्धैक-मितेऽपि वर्षे, (१९६६)
___ तत्रैव स प्रावृषमध्यवात्सीत् ॥६६३॥ मध्येचतुर्मासमुपाश्रयस्थ
धीकोशकीयाऽखिल-सुव्यस्थाम् । विधाय सूचीदल-मप्यशेष
सत्पुस्तकानां समचीकरत्सः ॥६६४॥ अनुक्रमाऽवं प्रतिपुस्तकेषु,
__ संलेखयामास बहुश्रमेण । येनाऽऽशु लभ्येत सुखेन कार्य
काले समेषामिति हेतुना हि ॥६६५॥