________________
डेलोपाश्रये चतुर्मासकरणं श्रुतज्ञानं च रक्षणम् । उपाश्रयोऽसौ वरिवर्ति तत्र,
श्रीराजपूर्वे नगरेऽद्वितीयः ।
संवेगिनामन्य उपाश्रया हि,
साम्यं किलैतस्त न यन्ति जातु ॥६६६॥
लुवार- पोले स्थितिमीयुषी या,
विद्याऽऽदि-शाला वर - धर्मशाला । उपाश्रयो वा स हि वीरपूर्वः,
परेऽपि रथ्यान्तर-संस्थिता ये ॥६६७॥
उपाश्रयस्याऽस्य गरीयसो हि,
जगत्प्रसिद्धस्य वियल्लिहस्य | अग्रे तथा ते सकला विभान्ति,
भुजङ्गप्रयातम् -
यथा प्रदीपाः खलु चित्रभानोः ॥६६८॥
क्रियोद्धारकारी सुपन्यास - धारी,
सुधीः सत्यसंज्ञो मुनीशो महीयान् ।
डहेलाऽधिवासं पुरा यद् व्यधत्त,
ततोऽभूदसौ तेन नाम्ना प्रसिद्धः ॥६६९ ॥
चतुर्मासिकायाममुष्यां महीयां
चरित्राधिनाथो महायासतो हि ।
भृशं ज्ञानभक्तिं प्रशस्यामकार्षीत्,
सदा बोधिबीजं ददत्सज्जनानाम् ॥६७०॥
११९