________________
११४
शिखरिणी ततस्तद्विज्ञप्त्या शम-दमवतामग्र्यमुनिपोऽ
चिरं प्रस्थायेतोऽप्रतिहत- विहारैः कतिपयैः । समायातः श्रीमान् सगुरुरनघो राजनगरं,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
=
सदा शान्ताकारो भाविकजनतारः श्रुतधरः ॥६३९॥
नदद्भिर्बेण्डाऽऽदिप्रमुखवर - वादित्र - निकरैर्नयद्भिर्बाधिर्यं सकलजनमुच्चैर्निजरवैः । वधूनां सङ्गीतै- रमित-पुरलोकै-रभिमुखं,
समायातैः साकं गुरुरयमविक्षत्पुरवरम् ॥६४०॥
अविच्छिन्नां धारां प्रवचन- सुधानामनुपमां,
गुरोरास्यादब्जादधिकनिपतन्ती - मतिरसाम् । सुधर्म्यं संसारोदधि - तरणिरूपां श्रुतिसुखां,
समस्त - श्रीसंघ
समे पीत्वा पीत्वा समगुरतितृप्तिं खलु जनाः ॥६४१ ॥
घ- प्रचुरतर- जाताऽऽग्रहवशा
च्छ्राऽङ्गाऽङ्क-क्षोणी-प्रमित (१९६५) शुभवर्षे गुरुवरः । चतुर्मासीं चक्रे पृथुतर - सुडेलोपसदने,
महालक्ष्म्या देव्याः परमवसतौ राजनगरे ॥६४२॥
असंख्याः श्रोतारः प्रतिदिनमुपायन्नधिसभं,
ह्यपूर्व- व्याख्यानाऽमृतरस-पिपासाऽकुलतराः । उरीचक्रुः केचिन्नियम-मपरे ऽभक्ष्यमखिलं,
जहुर्धर्मे दाढर्यं सकल - नर-नार्योऽभ्युपगताः ॥६४३ ॥