________________
११५
राजनगर-डहेलोपाश्रये श्रुतरक्षायै उपदेशः । गीतिः - चतुर्दश-पूर्वाऽऽदीनि, बहु-दुष्कर-तपांसि भविका जीवाः । विधिनाऽऽराधितवन्तचैतद्गुरुराज-वर्यकाऽभ्याशे ॥६४४॥ स्रग्धरा - पुर्यां तस्यां तदानी-मनलकृत-महोपद्रवः प्रादुरासीद्, एतस्मात्सर्व-पौरा अनवरत-महात्रस्यमानाः किलाऽऽसन् । हानिर्जाता धनानां कियदपि सदनं भस्मसात्सम्बभूव, भाव्यं किङ्कस्य कहीत्यनुपलमधिकं संशयानाः स्वचित्ते ॥६४५॥ इन्द्रवज्रा - तत्राऽस्ति हेतुर्बलवान् किलैष,
घाष्टेलकस्याऽधिकसम्प्रचारः । अस्यां शताऽब्द्यां नख-सम्मितायां,
पीपीयते यच्च जनो हि बीडीम् ॥६४६॥ उपजाति: - हेतोरमुष्माद्बलवत्तराद्धि,
लग्नो हुताशो बहुशो जगत्याम् । नोनुद्यमानः पवनेन चाऽऽशु,
क्षणेन सर्वं किल दन्दहीति ॥६४७॥ एतर्हि काले विषमे स्वकीयं,
सज्ज्ञान-कोशं विपुलं चिरेण । चिरन्तनाऽऽचार्यवरैः कियद्भिः,
- सुसञ्चितं ज्ञानममूल्यरत्नम् ॥६४८॥