________________
११२
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
उपजाति:
आगत्य राणकपुरं प्रविलोक्य तीर्थनाथं विशुद्ध मनसा स्तवनं तदीयम् । कृत्वा जनान् सुभविकानिह सम्प्रबोध्य, नाडोल-पत्तनमगादयमर्हणीयः ॥ ६२६ ॥
शार्दूलविक्रीडितम् - सत्कारं जनताकृतं बहुतरं सम्प्राप्य तत्राऽसकौ,
यात्रामुज्ज्वल- भावतो मुनिवर: सम्पाद्य विद्योदधिः । धर्म्याऽमोघ-सुदेशनाऽमृतरसं सम्पाय्य पौरानितो,
घाणेरावपुरं गतः पुरजनैः प्रावेशि चारूत्सवैः ॥६२७॥ सानन्दं जिनबिम्बमुज्ज्वलतरं सम्प्रेक्ष्य बह्वादरात्,
सत्पद्यैः सुचिरं प्रणुत्य मतिमाञ्छ्रीमान् जिनेशम्प्रभुम् । संसाराऽब्धि- तरिं श्रवः सुखकरीं दत्त्वा च सद्देशना -
मायातः पृथु-नारलाइनगरीं तीर्थं विधित्सुर्गुरुः ॥६२८॥ संघाऽऽरब्ध- महामहेन सगुरुः संघैः समं प्राविशत्,
सज्जीभूत - पुरं विधाय परया भक्त्या महायोगिराट् । यात्रां भक्तिभराऽवनम्र - सुजनान् सारोपदेशाऽमृतैः,
कृत्वा धर्म- - दृढव्रतान् वरकणा-तीर्थं समागादितः ॥ ६२९॥
तत्राऽसौ तीर्थपतिं प्रणम्य,
दृष्ट्वा मुहुस्तं बहुधाऽभिनुत्य ।
अमान - मोदं ह्यबिभः कृतार्थ
ममन्यताऽऽत्मानमदभ्र-बुद्धिः ॥६३०॥