________________
११०
नो मेनिरे ये प्रतिमार्चनं प्राक्, तेऽप्यस्य विद्वत्तम-सद्गुरोर्हि ।
महोपदेशैरमृतीभवद्भिः,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
वसन्ततिलका
स्वीचक्रिरे ऽर्हत्प्रतिमा - समर्चाम् ॥६१५॥
इत्थं पुनानो वसुधां क्रमाऽब्जैर्बहूपकुर्वञ्जनतामशेषाम् । अज्ञान - गाढाऽन्धमरं निरास,
सद्देशनोस्त्र रविवत्किलैषाम् ॥६१६॥
साचोरत: प्रचुर - शिष्य- सुसेव्यमानः,
प्रस्थाय मार्ग परिवर्ति-कियत्पुराणि ।
-
अध्युष्य भव्यजनताः प्रतिबोधयन् स,
आयिष्ट राजपुरमेष जगज्जनाऽर्च्यः ॥६१७॥
आयातमेन - मतिचारु- महामहेन,
प्रावीविशन् निजपुरं सकलाश्च पौराः । बेण्डाऽऽदिनैक - वर-वाद्य - महास्वनेन,
सुश्राविका - निकर - सुन्दर - गायनेन ॥६१८॥
आष्टाहिकं निरुपमं परमोत्सवं हि,
सङ्घचकार गुरुराज उपागतेऽस्मिन् ।
अष्टापदीय - रचना जनताऽतिहृद्या,
तत्रोत्सवे विरचिताऽखिल - लोक - नुत्या ॥ ६१९॥
जातं प्रभावनमुदारघिया सदैव,
सुश्रीफलैः पुटकबद्ध-सितोपलाऽऽद्यैः ।