________________
थरादादिनगरगमनेन जनाः सद्धर्मे स्थापिताः । तृषावतां पायनम्बुनो हि,
तथाऽबुधानां प्रतिबोधदानम् ॥६०९॥ तत्रत्य-लोका अबुधा अवश्यं,
ज्ञास्यन्ति धर्मं परमं च जैनम् । स्वजीवितस्याऽपि सुधारकास्ते,
नूनं भविष्यन्ति कलावपीह ॥६१०॥ अमूल्य-सम्यक्त्वमिदं सुरत्नं,
पनीपदिष्यन्ति किलाऽऽशु तेऽपि । इत्थं चिरं स्वाऽऽत्मनि संविमृश्य, ततो विजहे नगरान्मुनीशः ॥६११॥
(षड्भिः कुलकम्) अखण्ड-सच्छील-सुशोभमानः,
क्रमेण वावं स्थिर-पादसंज्ञम् । चरित्रनेता भरिलाऽभिधानं,
साचोर इत्यादि-कियत्पुराणि ॥६१२॥ लुम्पाक-लोकैः प्रतिमाद्विषद्भि____ाप्तानि तेष्वेष विहृत्य बाढम् । अमोघ-सौवाऽधिक-शुद्ध-धर्मो
पदेशदानैः प्रतिबोध्य भव्यान् ॥६१३॥ सम्यक्त्व-सद्वासित-भाव-पूर्णान्,
___ अङ्गीकृतार्हत्प्रविशुद्धमार्गान् । चक्रे सुजीवान् कियतो महीयान्, --
देवे गुरौ चाऽपि विशेष-रक्तान् ॥६१४॥(त्रिभिर्विशेषकम् )