________________
१०८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - चैत्योपरिष्टात्कलशार्पणं हि,
चेक्रीयते भक्तिभरेण लोकैः । यथा तथाऽनुष्ठित-सूपधानाऽ
वसान-मालापरिधापनं वै ॥६०४॥ मेघो मयूरानिव सर्वपौरान्, .
आजिह्नदच्छासन-कैरवेन्दुः । चतुर्विधं धर्ममवीवृधच्च,
चरित्रनेता पुरि सम्यगस्याम् ॥६०५॥ एकत्र तिष्ठन् सुचिरं हि साधुः,
स्वाऽऽचार-वैरुद्धयमवश्यमेति । समेधते वाऽधिकराग इत्थं,
ध्यायन् स्वचित्तेऽवसरे विहर्तुम् ॥६०६॥ स्वाचार-सम्पालन-तत्परो य
स्तिष्ठत्यजस्रं श्रमणः स एव । चारित्र-शाली जनता तमेव,
पोपूज्यते सादरमिद्ध-भक्त्या ॥६०७॥ देशे च यस्मिन् विचरन्ति नैव,
मुनीश्वरा धार्मिक-शिक्षणार्थम् । तत्रैव देशे मयकाऽधुना हि,
विहृत्य लोकाः प्रतिबोधनीयाः ॥६०८॥ यथा दरिद्रस्य धनप्रदानं,
बुभुक्षितस्याधिक-भोज्यदानम् ।