________________
१०७
राधनपुरे उपधान करितम् । अवाचयत् प्रत्यहमुत्तराध्य
यनाऽऽख्यसूत्रं परमं पवित्रम् । तच्छ्रोतुकामाः पुरुषाः स्त्रियश्च,
संख्यानहीना उपतस्थिरे हि ॥५९५॥ आर्या - विनयाऽध्ययनं प्रथम, तत्र मुनि-गृहिणोविनय-गुणोऽदर्शि । अमुना भवति च विद्या, जायतेऽनया श्रुतज्ञानम् ॥५९६॥ प्राप्नोत्यनेन विरतिं, बोभवीति तयाऽऽश्रवाणां रोधः । सम्वर उदेति तस्मात्, तदुदित-तपसा भवति निर्जरा ॥५९७॥ इत्थं हि परम्परया, विनयगुणोऽस्तीह मुक्तिफलदायी । अत एव सर्व जीवै-रसको मुख्यतया धर्तव्यः ॥५९८॥ गीतिः - तदितराऽध्ययनीयमपि, कथानकं सम्यगबूबुधल्लोकान् । प्रमुदित-मनसः सर्वे, धर्माऽनुष्ठाने बहूत्सेहिरे ॥५९९॥ वर्षाकालेऽतीते, मसालिया खोडीदासः श्रेष्ठी । सौभाग्यचन्द्र-तनयोऽ-चीकरदुपधानतपोऽधिक-भावैः ॥६००॥ तस्य प्रधानमङ्गं, नवपद्याराधनमपि सम्बभूव । यतकृताञ्जनशलाका, प्रतिमेव तद्विना न फलति तदत्र ॥६०१॥ आसीत्तदनुष्ठाने, स्त्रीपुंसाना-मुपस्थितिर्ब्रहती । गुरुदेव-प्रसादेन, समपादि तत्सकलमपि निर्विघ्नम् ॥६०२॥ उपधाने परिपूर्णे, मालां पर्यदीधपत्सर्वांस्तान् । महता महेन विधिवत्, गुरुवर्यः पन्न्यास-नीतिविजयः ॥६०३॥