________________
१०४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तत्सेवया च सकलाऽनुपमा गुणा हि,
तेषामिवाऽऽत्मनि निजे ह्युदिता भवन्ति । तान् पर्युपास्य सुचिरं भुवि तत्समत्वं,
सम्प्राप्नुवन्ति सुजना न हि संशयोऽत्र ॥५८०॥ पृथ्वीच्छंदः - अनन्त-गुणसम्पदां सकल-रोमकूपेषु वै,
महामहिम-शालिनां वसति शुद्धता गौरवम् । नृणामिह महीयसामतुल-शक्तिमाबिभ्रतां,
___ दयामय-सुचेतसामखिल-जीवमारक्षताम् ॥५८१॥ महापुरुष ईदृशो व्रजति यत्र यत्राऽवनौ,
__ विभूतिरखिलोज्ज्वला भवति तत्र तत्र ध्रुवम् । य एनमुपसेवते परमया च भक्त्या सदा,
ह्यपार-भवसागरात्तरति नूनमस्मात्सकः ॥५८२॥ वसन्ततिलका - यो ब्रम्भ्रमीति बहुभक्तियुतः सुतीर्थे,
नाऽटाट्यते स हि कदापि भवाऽटवीषु । यो व्येति वित्तमनघः प्रतिपद्य तीर्थं ।
जञ्जन्यते पर-भवे स हि सम्पदाऽऽढ्यः ॥५८३॥ जीर्णोद्धृति चरिकरीति सुमन्दिराऽऽदेः,
___ सर्वोऽप्युपाधिरभियाति लयं तनुस्थः । तस्मात् सुजीर्ण-जिन-चैत्य-समुद्धृतिर्हि,
कार्या धनाऽऽढ्यपुरुषैरखिलैरवश्यम् ॥५८४॥