________________
राधनपुरात् चरित्रनेतुः सिद्धाद्रिप्रति ससंघस्य गमनम् । __ १०३
अध्युष्य काश्चिद्रजनीरिहैष,
___ संघाऽधिपस्याऽतिशयाऽऽग्रहेण । संघेन सार्धं पुनराधनाऽऽद्यं,
___ पुरं समागात्सह शिष्यवर्गः ॥५७५॥ वसन्ततिलका - तत्पौर-मुख्य-जनताऽतिशयाऽऽग्रहेण,
श्रीविक्रमार्क-गुण-तर्क-नवैकवर्षे (१९६३)। पन्यास-भावविजयैर्गुरुभिः सहैष,
प्रावृष्युवास नगरेऽत्र महामहेन ॥५७६॥ शत्रुञ्जयाऽऽदि-बहुपावन-सर्वतीर्थ
माहात्म्यमेष सकलानतिविस्तरेण । तधात्रया च भविनामिह यानि यानि,
जायन्त उत्तमफलानि परत्र चाऽपि ॥५७७॥ प्राऽशिश्रवत्तदखिलानि सुदेशनायां,
श्रीमानयं तरण-तारण-कारिदक्षः । सन्त्युत्तमाश्च पुरुषाः स्वयमेव तीर्था, जीवेष्वभीतिमनिशं ददते च ये हि ॥५७८॥
(युग्मम्) तत्पाद-पद्म-परिपूत-वसुन्धरैषा,
तद्रेणवोऽपि नियतं भुवि तीर्थरूपाः । तत्स्पर्शनेन विधिवत्परिपूजनेन,
निष्पापिनोऽत्र मनुजाः सकला भवन्ति ॥५७९॥