________________
९८
बेण्डाऽऽदिवाद्यैर्युगपद्रणद्भिः, प्रवेशयामासुरिमान् स्वपुर्याम् ॥५४८ ॥
चरित्रनेता जलमुक् - स्वनाऽनुकारि-स्वनेनैष जगद्धितैषी । अमेय-लोकान् परिषत्समेतान्, अशुश्रवद्धर्मकथाः पवित्राः ॥५४९ ॥
वसन्ततिलका
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
-
हे भव्यवृन्द ! जगतीतल एतकस्मिन्, स्वप्नोपलब्ध- सुखवन्नियतं विभाति । स्त्री- पुत्र-बन्धु- धन-धान्य- गृहाऽऽदिसौख्यं, नैकोऽप्यमीषु हितकृद्भविताऽऽत्मनो हि ॥५५० ॥
पानीय- बुद्बुदगणायित-सर्वमेत
दस्तीति चेतसि निजे परिचिन्त्य तेषु । मोहं जहीत सकलाः कुरुताऽऽत्मशक्त्या,
धर्मे मतिं भजत तीर्थकृदङ्घ्रिपद्मम् ॥५५१॥
-
देहोऽपि योऽस्ति परम प्रिय आत्मनो हि, पुत्रस्तमेव मम तात इति ब्रवीति । भार्या च मे पतिरसाविति भाषतेऽमुं,
गृध्रादयोऽपि मम भक्ष्य इति ब्रुवन्ति ॥५५२ ॥
मोमुह्यते च सकला जनता यकस्मिन्,
पोपुष्यते च सततं यमिहाऽऽत्मबुद्ध्या । तञ्चाऽपि कालवशग: सकलो जहाति,
रोरुद्यमान- वनितादिकमीक्षमाणः ॥ ५५३ ॥