________________
९७
जामनगरपूरगमनम् चैत्यमस्ति जगतामतिनुत्यं,
पश्यतां दृगतितर्पण-दक्षम् ॥५४२॥ विश्व-वासि-जनता-हृदयानि,
शश्वदाकृषति भासुर-चैत्यम् । मेघ-वर्त्म-परिचुम्बि-विशालं,
कारु-चारु-पटुता-कृत-चित्रम् ॥५४३॥ आङ्गलाः शतश एत्य महिष्ठा,
वीक्ष्य तत्प्रतिकृतिं परिलाय । यान्ति देशमित उत्तमधीराः,
संस्तुवन्त इदमुत्तमचैत्यम् ॥५४४॥ आर्या - विंशतिशताऽब्दिकायां, यत्रेण लघु नृणामिव चैत्यादेः । प्रतिमानं मित-मूल्यैः, कुर्वन्ति दक्षजनाः शतशः ॥५४५॥ गीतिः - अत एव वैदेशिकाः, दैशिकाश्च तत्राऽऽगता महेभ्याः । निरुपम-तच्चैत्यस्य, प्रतिकृतीः प्रतिदिनं पातयन्ति ते ॥५४६॥ उपजातिः - श्राद्धाश्च तस्मिन्नति धर्मनिष्ठा,
वसन्ति सम्यक्त्वमुपेतवन्तः । सौवे गुरौ देववरे च भक्तिं
सदा विधातार उदार-चित्ताः ॥५४७॥ गुरून् समेतान् विबुधाग्रगण्यान्,
निशम्य सर्वे मुदिताश्च पौराः ।