________________
मोरबीपुरे संघकृत महोत्सवे लुम्पकानामागमनम् । सहस्रशः स्थानकवासिनोऽन्ये,
चेलुः सहैवं ददृशुर्जिनेशम् ॥५३३॥ शार्दूलविक्रीडितम् - श्रुत्वा गौरव-देशनां सुरुचिरां पीयूष-धारायितां, श्रीमज्जैनिक-मूर्ति-पूजनपरां नैकाऽऽगमाऽऽपादिताम् । ध्यानाऽऽलम्बन-दायिनीं सुविदुषां संसार-वाधौं महानावं भूरि-सुयुक्ति-सूक्ति-सहितामादेयभूतां सताम् ॥५३४॥ ऊचुस्ते प्रतिमार्चनं जिनविमोश्चैत्य-प्रतिष्ठाकृतिः, शास्त्रेष्वस्ति परं मदीयगुरवस्तन्नोररीकुर्वते । तत्तत्पाठ-विलोम-मर्थमसकृत्संश्रावयन्ते च नः, तस्मादेव महाभ्रमे निपतिता वर्तामहे साम्प्रतम् ॥५३५॥ (युग्मम्) वसन्ततिलका - चक्षुर्न पश्यति मनो न हि याति यत्र,
वाचामगोचरतया प्रतिभाति यच्च । यत्केवलं मनसि पश्यति केवली तद्,
ध्यायेदृते प्रतिकृतिं न हि नाऽत्र मूढः ॥५३६॥ भुजङ्गप्रयातम् - जले मज्जतां देहभाजां सुनाव
मिवाऽऽलम्बनं चाऽत्र मूर्तिर्जिनानाम् । अतीवोपयुक्तं वरीवर्ति नूनं,
स्वमुद्धर्तुमेतद्भवाऽब्धेरयत्नात् ॥५३७॥