________________
मोरबीपूरे लुम्पकानां कान्फेन्समीलनम् । शालिनी - आसीत् कान्फ्रेन्साऽधिवेशो महीयान्,
लुम्पाकानां तत्र पुर्यां तदानीम् । तस्मिन्नागुर्भारतीयास्तदीयाः,
सर्वे मुख्याः प्रायशो धीधनाऽऽढ्याः ॥५२२॥ वैतालीयम् - अजमेर-पुराऽधिवासकृत्, श्रीढढ्ढा-शुभनाम-धारकः । जनता-बहुमानितः सकः, सच्छेष्ठि-प्रवरोऽप्युपाययौ ॥५२३॥ राजकोट-वासकारको, मुरारि-नन्दन-भीमजित्तथा । श्रीमज्जन-मुख्यतामित-स्तदवसरे समुपस्थितोऽभवत् ॥५२४॥ उपजातिः - ततान तत्राऽवसरे ह्यमोघा
च्चरित्रनेतुर्विपुलोपदेशात् । तत्रत्य-शुक्लाम्बर-सर्वसंघ
चाऽऽष्टाहिकं चारु-महामहं सः ॥४२५॥ तत्रोत्सवे श्रीभगवद्रथेन,
महीयसा चारु-सुमण्डितेन । पुरःसरेण भ्रमितुं नगर्यां,
निःसीम-लोकैर्वर-वस्त्र-भूषैः ॥५२६॥ मातङ्गराजैः-वर-वाजिपुजैः,
प्रसाधनैर्मण्डित-सर्व-गात्रैः । संहेषमाणैः कतिपत्तिभिश्च,
बन्दूकहस्तैः पुरतश्चलद्भिः ॥५२७॥