________________
९२
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
परिपिबन् गुरुमण्डल मण्डितो,
न्यविशदेष पुरं बहुशोभितम् ॥५१६॥ ( युग्मम् )
गुरु-मुखेन्दु- गलद्वर - देशना - मृतमलं परिपीय जनाः समे ।
प्रमद-वारिधि-मज्जित - विग्रहा, गुरुवरं प्रशशंसुरतीव ते ॥५१७॥
शार्दूलविक्रीडितम् -
अत्र स्थानकवासिनो बहुतरास्तिष्ठन्ति मूर्तिद्विषो, वर्षैरेव चतुःशतैः प्रचलितं जैने विभागद्वयम् । तत्रैकः प्रतिमार्चनं जिनवराऽभेदेन चेक्रीयते, नैवाऽर्चत्यपरः कदाऽपि जडधीर्ध्यानं विधत्ते परम् ॥५१८॥
बिम्बोपासनकारकस्तु निरघः श्रीशलेयप्रभोः,
पट्टानुक्रमगः सनातनतर: पक्षो ददृश्यते ।
अर्हन्मूर्ति - समर्चनैकनिरताः सन्तः कियन्तो जना, याताः सिद्धिमकल्मषाः क्षितितले यास्यन्ति चाऽग्रे पुनः ॥ ५१९ ॥
भू-विख्यात कुमारपाल - वसुधापालः पुरा सम्प्रती, राजाऽन्येऽपि कियज्जना नरवरा भूपा महेभ्यास्तथा । सोत्र - भासुराऽमित - महाचैत्यानि निर्माप्य ते, सर्वामेव वसुन्धरामपिपरुश्चैत्यैरिमामार्हतैः ॥ ५२० ॥ अद्यापि प्रतितीर्थमार्हतजनैः सम्यक्त्ववद्भिर्महाऽमात्याद्यैः कृत-मन्दिरेषु गगनालिङ्गिष्वसंख्येषु वै । पूज्यन्ते जिनमूर्तयः प्रतिदिनं श्रद्धालुकैः श्रावकैः, शास्त्राणि प्रतिपादयन्ति शतशस्तन्मूर्त्ति पूजाविधिम् ॥५२१ ॥