________________
मोरबीपूरगमनम्। स्वीयान् कुटुम्बानतिभव्यजीवान्,
अप्युद्दधारैष जगद्धितैषी ॥५११॥ प्रौढ-प्रतापाऽतुल-शक्तिभाजा
मीदृक् स्वभावो भवतीह पुंसाम् । तरन्ति लोकानपि तारयन्ति,
दुष्पार-संसार-समुद्रमध्यात् ॥५१२॥ शठास्तु नित्यं सुजनाऽतिपीडां,
कुर्वन्ति पापानि समाचरन्ति । स्वयं महाऽन्धे भवकूपमध्ये,
'पतन्परेषामपि पातयन्ति ।।५१३॥ द्रुतविलंबितम् - समय-मत्र कियन्तमसौ स्थित,
उपचकार विशेषतया सुधीः । भविक-सर्वजनांस्तत एषकः,
प्रविजहार जगाम च मोरबीम् ॥५१४॥ तदनु विश्व-सुपूज्य-मुनीश्वरः,
सुजनता-रचितै-विततोत्सवैः ।। जय-जयाऽऽख-मुच्चतर-स्वरै
वंददशेष-सुपौर-जनैः समम् ॥५१५॥ हरिणलोचन-कान्त-नितम्बिनी
जन-मनोहर-गीत-सुधारसम् ।
१. अत्रैकवचनं चिन्त्यम् ।