________________
वंकपूरे संघस्य पुरश्चरित्रनेतुर्देशना । महत्तमा नैकपुमांस एतत्,
आजन्म सम्पाल्य गता हि सिद्धिम् । अद्याऽपि तत्कीर्तिरिहाऽस्ति सुभ्रा,
भव्या ! भजध्वं तदवश्यमेव ॥ ४९८ ॥
उपगीति:
हा हा ! सम्प्रति काले, विंशतितम-शताऽब्द्यामस्याम् । तस्याऽत्यन्ताऽभावोऽबोभोदिह भारते वर्षे ॥४९९ ॥
गीतिः स्त्रैणाः प्रायः सर्वे, श्वायन्ते काम किङ्करीभूतः । अनुरक्तामपि पत्नीं, परिहाय सम्भजन्ते परदारान् ॥५००॥ गणिका - मुखमपि पूतं, कामाऽन्धाः सत्कुलजा अपि जीवाः । नीचैरपि परिपीतं मत्वा चुम्बन्ति सादरं धिक्तान् ॥५०१ ॥
-
?
जीवनमपि दुरवापं, क्षणिकैरोपस्थिकैः सुखाभासैः ।
व्यर्थमेव गमयन्तो भवन्ति च विविधरोग-परिपीडिताः ॥ ५०२॥ रुग्णा अपि तत्तृष्णां, न जहति दिनकर गताऽऽगतैर्नित्यम् । क्षीणं भवदपि चाऽऽयु[-र्जानन्ति नैव मूढतरा जीवाः ॥५०३॥
"
मेम्रीयन्ते कष्टा-दनुभवन्ति च नरकयातनां घोराम् ।
इत्थं जनिमृतिदुःखं, सहमानाः सुचिरं भवे बम्भ्रमति ॥ ५०४ ॥
उपजाति:
यामेष कामी मनुतेऽनुरक्तां,
शेश्रीयते सा कमपीह जारम् ।
तस्मादिदं मादनमादिरम्यं,
८९
विहाय सौख्यं भज ब्रह्मचर्यम् ॥५०५ ॥