________________
८८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् दर्श दर्शममुं भृशं मुमुदिरेऽमाक्षुश्च हर्षांऽम्बुधौ, . धन्यश्चाऽस्य (पिता) जनन्यपि महाधन्येति तं तुष्टुवुः ॥४९२॥ इत्थं नागर-सत्कृतोऽखिल-जनैर्वावन्द्यमानो गुरुवैराग्याऽमृतवाहिनीं मधुरिमोद्गारं परं तन्वतीम् । संसाराऽखिल-भीति-नाशनकरीं सद्बोधि-बीज-प्रदां, मोह-ध्वान्त-निराकरिष्णुमनघां रम्यामदाद्देशनाम् ॥४९३॥ श्रीमत्केवलि-सत्प्रमूदित-वचः-प्रोल्लासिनीमुज्ज्वलां, पुत्र-स्त्री-धन-मन्दिराऽऽदि-विषय-व्यामोह-पाश-च्छिदाम् । आत्माऽऽनन्दरस-प्रवाहजनिकामुञ्जासिकामंहसां, दौर्मत्यादिकवारिकामसुमतां सम्प्रापिकां श्रेयसः ॥४९४॥ (युग्मम्) उपजातिः - तद्ब्रह्मचर्यव्रतमत्र भव्याः !,
शर्मप्रदं कामगवीव लोके। विभाति नानाऽऽत्मकमुत्तमानां,
पुंसामनन्ताऽऽत्म-बलप्रदायम् ॥४९५॥ आजन्म ये तत्परिपालयन्ति,
तेऽनन्तशक्तिं मतिवैपुलश्च । कीर्ति प्रशस्यामभि (स्यां प्रति) पद्य चाऽन्ते,
मोक्षं लभन्तेऽखिल-बन्ध-मुक्ताः ॥४९६॥ भवाऽन्ध-कूपावहिरेतुमस्मा
दितोऽधिकं साधनमस्ति नैव । सत्यं किलैतत्परिवच्मि वोऽहं,
दुराप-मानुष्यमुपेयुषां भोः ! ॥४९७॥