________________
भोयणीतीर्थे महोत्सवं कृत्वा । पादलिप्तपूरमागमत् गुरुः। सा भोयणी ग्रामटिका किलैका,
दैवाच्च कूपात्कुकवाय-पुर्याम् । श्रीमल्लिनाथ-प्रतिमाऽऽविरासीत्,
तदर्थमेतत्पुरयोर्विवादे ॥४५६॥ अनःस्थिता सा प्रतिमा स्वयं हि,
चचाल तस्मादृषभं विनाऽपि । तद्भोयणी-पत्तनमेत्य तस्थौ,
तीर्थायते तद्दिवसात्किलैतत् ॥८५७॥ साध्व्यः कियत्यः श्रमणा अपीह,
__ भूयांस एवाऽऽगतवन्त आसन् । चरित्रनेतुः शुभ-पाणिपद्माद्,
विधिः समग्रः समभूदमुष्मिन् ॥४५८॥ याते च पूर्णत्वमपूर्व-चारू
त्सवे तदीये मुनिराज एषः । विहृत्य तस्मान्निजमण्डलीयुक्,
___ तत्पादलिप्तं नगरं समागात् ॥४५९॥ शालिनी - अस्मादर्धक्रोश-दूरे महीयान्,
उच्चैः शैलः सिद्धनामा विभाति । संख्याऽतीताः सन्मुनीन्द्रा हि तस्मिन्,
सिद्धि प्रापुः संसृताऽब्धि-प्रतीर्णाः ॥४६०॥