________________
चन्द्रराजचरित्रम्
अष्टाविंशः परिच्छेदः
चन्द्रनृपदीक्षाग्रहणम्
अयि देवानुप्रियाः ! महानुभावाः ! भवद्भिः सदा सद्भावेन धर्म्यं कार्यं कर्तव्यम्, अमुं संसारं च क्षणभङ्गुरं ज्ञात्वा तत्सुखेष्वासक्तिर्न रक्षितव्या ।
यतः
हरिष्यमाणो बहुधा परस्वं करिष्यमाणः सुतसंपदादि । धरिष्यमाणोऽरिशिरस्सु पादं न स्वं मरिष्यन्तमवैति कश्चित् ॥३५॥
इतोऽतिरिक्तममुं राज्यभाण्डागारं मातापित्रादिस्वजनानपि स्वीयान्न मन्येरन्, तेषां च बन्धनेऽत्याधिक्येन न पतेयुः सहैव निरन्तरमुत्तमजातिकुलाचारस्य पालनं कुर्युरियमेव मे शिक्षा, तथाऽयमेव मदीयाशीर्वादोऽस्तीत्युक्त्वा राजर्षिणा चन्द्रेणाऽग्रे प्रतस्थे । गुणशेखरकुमारस्तथाऽन्ये जना नेत्रैरश्रूणि मुञ्चन्त आभापुरीं प्रत्याययुः ।
ततो राजर्षिणा चन्द्रेण सकलमुपाधिं त्यक्त्वा मुनिस्थविर - महाराजस्य समीपे ज्ञानाभ्यसनमारेभे । सार्द्धमेव तेन चारित्रविषयकक्रियाकलापेऽपि नैपुण्यमाप्तम् । इत्थमेव सुमतिमुनिशिवकुमारमुनी अपि चन्द्रराजर्षिं प्रति विनयेन वर्तमानौ शास्त्राण्यधिजगाते । गुणावलीप्रभृतयः साध्व्योऽपि प्रवर्तिनीपार्श्वे साध्वाचाराणां शिक्षां जगृहुर्ज्ञानाभ्यासेन च सहैव जपतपश्चारित्रक्रियानुष्ठानादिष्वपि लीनास्तस्थुः । सर्वेऽपि सिंहवच्चारित्रं गृहीत्वा तथैव तत्पालने तत्परा अभूवन् । ते निजचारित्रमदूषयन्तः परमात्मानं प्रति निश्छद्म-श्रद्धामतिबिभ्रति स्म । इत्थं श्रुतसागरस्याऽवगाहनं भृशं कुर्वतां तेषामध्यात्मरत्नस्य प्राप्तिर्बभूव । तत आत्मस्तुतेः परनिन्दादिदोषाणां च पूर्णरूपेण त्यागं कृत्वा तेऽप्रमत्तनामके
।। ३०२ ।।