________________
चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः
चन्द्रनृपदीक्षाग्रहणम् कठिनं नाऽस्ति । भूधवचन्द्रस्येमा दृढतां निर्वर्ण्य भगवता तस्मै चारित्रदानं स्वीकृतम् । ततो राज्ञा चन्द्रेण भगवतो यथाऽऽदेशं सर्वतः पूर्वं सर्पकञ्चुकत्यागवत्समस्तमाभरणमुत्तार्य कर्मवृक्षस्य मूलमिवोत्तमाङ्गस्य कचा लुलुचिरे । ततोऽसौ शुद्धक्रियाऽनुष्ठानाय सज्जितो बभूव, अतो भगवता तस्मै धर्मध्वजमुखवस्त्रादिकं मुनिवेषं दत्त्वा तच्छिरसि सुगन्धाढ्यो वासक्षेपो विहितस्ततो भगवता तेन चतुर्महाव्रतस्य नियमः कारितः । समाप्तायामेतावत्यां क्रियायां राज्ञा चन्द्रेण चन्द्रराजर्षिपदं लब्धम्, ततः समस्तसुरनरैः स वन्दितः। सुमतिना सचिवेनाऽपि तदानीमेव दीक्षा गृहीता पूर्ववच्च तदा चन्द्रराजमन्त्रित्वं लब्धम् । ततः शिवकुमारेणाऽपि सांसारिकं नटवेषं परित्यज्य लोकरूपे वंशे चटित्वा दुर्घटां चरणक्रीडां क्रीडितुमपूर्वं संयमनाटकस्य कार्य स्वीकृतम्, अर्थात्तेनाऽपि नटवृत्ति मुक्त्वा चारित्रमङ्गीकृतम् । एभ्योऽन्यैर्जनैरपि विविधव्रतनियमादिकं गृहीतम् । अथ भगवताऽऽभापुरीतो विहृतम्, चन्द्रराजर्षिणाऽपि निजमुनिपरिवारैः सह विहारः कृतः । सुदूरमनुगता गुणशेखरादयः परावर्तनाऽवसरे तान् प्रणम्य स्वस्वनाम ग्राहं ग्राहं प्रोचुः-हे भगवन्! भवन्तस्त्वस्मद्धार्दिकं प्रेम विस्मृत्य चलिताः परं वयं भवतां स्नेहं कथं त्यजेम ? भवद्भिस्तु तृणवद्राज्यं त्यक्तम्, परं वयं तत्कथं जह्याम ? भवन्तस्तु शरीरमलवत्सर्वं हित्वाऽऽत्म-कल्याणसाधनाय गच्छन्ति परमस्माकं कल्याणं कः साधयिष्यति? अस्तु, भवन्तो मुदा गच्छन्तु किन्त्वस्माकमियती प्रार्थनाऽस्ति, यद्भवन्तोऽस्माकं न विस्मरेयुः, कदाचित्कदाचिदितोऽपि समागत्यास्मभ्यं स्वदर्शनलाभ ददीरन् । राजर्षिणा चन्द्रेण सर्वेभ्यो धर्मलाभाऽऽशीर्वादं ददतोक्तम्
|| ३०१ ।।