________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम्
૨૮ના __ तदा भगवता कथितम्-हे चन्द्र ! देवानुप्रिय ! यदि युष्माकमीदृगेवेच्छा वर्तते, तर्हि स्वपरिवाराणामाज्ञां लब्ध्वा झटित्येव दीक्षा गृह्यताम् । शिवार्थिभिभव्यात्मभिरीदृशि निजात्मोद्धारात्मके सत्कार्ये विलम्बो न विधेयः । एतदाकर्ण्य राजा चन्द्रोऽपि तथास्त्वित्युक्त्वा स्वपरिवारैः सह सानन्दं सद्भावनां भावयन् राज्यपुत्रकलत्रादि भवभ्रमणहेतुकं गणयन निजराजभवनमागतः।
|| २६६ ।।