________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवोदन्तः वीरमत्या कृकवाकुर्विहितः । पूर्वजनौ रूपवतीदास्या कोस्याः सेवा कृताऽऽसीत्, तस्मादत्र भवे शिवमालया कुक्कुटमानीय प्रेमलायै समर्पितः स्नेहपूर्वकं च चिरं तस्य रक्षा कृता ।
इत्थं मुनिसुव्रतस्वामिना श्रुतप्राग्जन्मफलोदन्तैश्चन्द्रराजादिभिर्जनैर्बह्वी सुशिक्षा गृहीता । ततो राज्ञा चन्द्रेण सुवैराग्येण कर्मजालानि मायाजालानि च छिन्नभिन्नं कृत्वा परमोपकारिणो भगवतश्चरणयोर्भक्त्या नमस्कारः कृतः । अथ चन्द्रनृपादिभिरुक्तम्हे भगवन् ! भवादृशि कर्णधारे लब्धेऽपि चेद् वयं भवाब्धिं नो तरेम, तर्हि पुनरस्माकं कृतेऽन्यः को भवसागरतारणोपकारको भवेत् ? भवताऽस्य जगतो यथार्थं भयं संदर्श्य वयं सद्धर्मकर्मसम्मुखीनाः कृताः स्मः । अथ भवत एव नः स्वकीयान् बुद्ध्वास्मत्प्रीतिरीतिर्निर्वाहनीया भविष्यति । यतो यस्मिञ्जलप्रवाहे वहनभीत्या I गजोऽपि हतपौरुष आस्ते, तत्रैव जलप्रवाहे मत्स्याः प्रतिकूलं तरीत्रति परं नैजान मत्वा जलप्रवाहेन ते नोह्यन्ते, अतो हे प्रभो! अनादिकालाद्भवभ्रमणश्रान्तेष्वस्मासु दयां विधायेतो भवसागरात्पारमुत्तार्यताम् ।
यतः
-
विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्मं न विचक्षणोऽपि । विना प्रदीपं शुभलोचनोऽपि, निरीक्षते कुत्र पदार्थसार्थम् ? ॥२७॥ अपि च
अवद्यमुक्तेः पथि यः प्रवर्तते, प्रवर्तयत्यन्यजनं च निःस्पृहः ।
।। २६५ ।।